अस्ति मध्ये भारतस्य राज्यं मध्यप्रदेश वै
विपुलकृषिक्षेत्रेण तीर्थक्षेत्रैश्च शोभितम् ||1||
अवन्तिः कालिदासस्य महाकालपुरञ्च तत्
नारायणगुरुस्थानं सान्दिपनीभिराश्रितम् ||2||
चतुरेकैकपञ्च(5114)तमे युगाब्दे पर्वसुन्दरं
भाग्यमवन्तिभाषयोः साहित्योत्सवकारणात् ||3||
आयोजिताः प्राङ्गणे दशहराख्ये प्रदर्शिनी ग्रामसभागारे
अघोषयन् यत्र "सुर-लोक"तत्त्वं समुपेताः गीर्वाग्भाषमाणा: ||4||
अपि जनाः सहस्रशः समुपस्थिताः संस्कृताय वै
गतपुस्तकमेलातः न्यूना संख्येति सत्यन्तु ||5||
तथाप्युपकोतिरुप्यकाणां ग्रन्थविक्रयणं अभूत्
सगोष्ठीकार्यशालाभिः विशिष्योत्सव शोभितः ||6||
"अकादमी" कालिदासाभिधाना संगोष्ठीदायित्वमपूरयत् |
व्याख्यानचर्चाभिः संस्कृतेन अमन्त्रयन्तत्र अभ्यर्थिताः ||7||
मनांसि वै श्रोतृदर्शकानां, युवावर्गस्य विद्वज्जनानां
तुष्टानि चकितानि प्रफुल्लितानि दृष्ट्वा चमूं ननु सुरवाग्वताम् ||8||