Friday, September 23, 2011

चलन्तु सर्वे संवादशालां

पूर्वपीठिका :
कला क्षेत्रे बिन्दवः न सन्ति; तत्र केवलं सहजरीत्या यत् प्रभवति तदेव प्रतिपाद्यं इति सामान्यअभ्यासः | किन्तु अहं अत्र तान्त्रिकरीत्या संवादशालायाः वर्णनं करोमि | तत्र कारणद्वयं अस्ति - एकमस्ति यत् संवादशालायाः अनन्तरं बहु कालः अभवत् अतः यदि एवमेव लिखामि तर्हि तत्र तर्क-प्रवाहः न आयाति; अन्यत् च यदि प्रवाहरुपेण लिखामि तर्हि तत्र प्रायः अभिव्यक्त्यां, पठने, लेखने च खण्डितता आगच्च्हेत! अतः एषः प्रयासः --  
दिनानि - संवादशाला पञ्चदशदिनात्मका वर्तते | निवासी शिबिरमियं देहल्यां मण्डोलीग्रामे बद्री भगत वेदविद्यालये भवति | तत्र एकं  श्री दुर्गादेवीमन्दिरं अपि  अस्ति  परिसरे दैनन्दिन जीवनात् १५ दिनानि निष्कास्य तत्र गमनाय एव एका मनीषा आवश्यकी |  यथा जले कूर्दनात पूर्वमेव तरण विषये किञ्चित् भयं भवति; यदा तरणं आरम्भते तदा तु बहु आनन्दः, विशेष लाभः च; सा एव स्थितिः अत्र | तत्र गमनात् पूर्वं किञ्चित् भयं, शङ्का च वर्तते, किन्तु गमनानन्तरं अद्वितीयः अनुभवः    |
अनुशासनम् -  संवादशाला मम कृते अनुशासनस्य एकः महत्त्वपूर्ण पाठः | तत्र प्रातःकाले पञ्चवादनात आरभ्य रात्रौ दशवादनपर्यन्तं नैरन्तर्येण सत्राणि आयोजितानि सन्ति | अनुशासनस्य बिन्दू स्तः :
संस्कृतेन संभाषणं 
समयपालनं   
 यदि आज्ञापालनं क्रियते तर्हि अन्यत् सर्वं विनासायासं भवति ! अन्यया भाषया संभाषणं सर्वथा निषिद्धं तत्र, केवलं संस्कृतेन संभाषणं ! यदि संस्कृतं न जानाति तर्हि दिनद्वयं तूष्णीं स्थातव्यं ! समयपालनविषये तु सैन्यसमाना जागरुकता - तत्र शिक्षकाः  अस्मान् लज्जीकृत्वा अस्मद्पूर्वमेव कक्षायां आगच्छन्ति स्म | 
शिबिरस्थलस्य स्वच्छता, आवासीय प्रकोष्ठस्य स्वच्छता इत्यपि अस्माकमेव दायित्वमासीत् | प्रातःकाले ५.४५ तः ६.१५ पर्यन्तं व्यायामं समाप्य स्वच्छता करणीया | सहभागीजनानां गणद्वयेषु एतत् दायित्वं विभक्तं आसीत | गणे केषाञ्चन दायित्वं भोजनपरिवेषणं | किन्तु प्रत्येकेन  एकं दिनं विहाय एकस्मिन् दिने शिबिरस्य व्यवस्थापने किमपि कार्यं करणीयं | 
संपूर्णं संस्कृतं -  शिबिरस्थलात् बहिर्गमनाय अनुज्ञा न आसीत् | पुनः जङ्गमवाणी तैः स्वीकृता | बहिस्थ विश्वेन सह कोपि संपर्कः एव नास्ति | संपूर्णः अज्ञातवासः ! एवं सर्वं संस्कृतं विहाय तत्र अन्यत् किमपि चिन्तने अपि न भवेत् इति निश्चितं आसीत् |
सत्राणि - प्रातः ८.३० तः आरभ्य  रात्रिकाले ९.४५ पर्यन्तं शत सत्राणि आसन् | प्रातः ७.३० तः ८.०० वादनपर्यन्तं प्रार्थना, प्रातःस्मरणं च विद्यते स्म | द्वितीय-तृतीये सत्रे मिलित्वा एकमेव सत्रं  - १०.३० तः १२.३० पर्यन्तं - तदासीत् संभाषण-शिबिर-सत्रं | आदर्श संभाशणशिबिरं तदा भवति स्म | माध्यान्ह सत्रे अध्यापनस्य अभ्यासः तथा च केचन व्याकरण पाठाः आसन् |
"भाषा-क्रीडा" इति ५.४५ तः ६.१५ पर्यन्तं विशेष कार्यक्रमः -- चोरान्वेषणं, संख्याक्रीडा, कथापूर्ती-क्रीडा एवं क्रीडया अपि भाषाभ्यासः एव कारयन्ति स्म तत्रस्थाः शिक्षकाः |  ७.३० वादने यदा सर्वाणि सत्राणि समाप्यन्ते तदा महान् सन्तोषः सर्व छात्राणाम् ! किन्तु न विश्रान्तव्यं -- भोजनात् परम् आसीत् प्रतिभाप्रदर्शनं | तत्र अनेकानि संस्कृत नाटकानि तथा च गीतानि पठितवन्तः वयं | मूकाभिनयं कृत्वा क्रियातर्कः, संस्कृत-गीत-प्रतियोगिता, हास्यकनिका-प्रतियोगित इति अपि तत्र आसन् कार्यक्रमाः |     

एवं आदिनं सर्वे व्यस्ताः, श्रान्ताः च अभवन् | किन्तु सा श्रान्तिः अस्माकं हिताय एव आसीत् इतीदानीं ज्ञायते ! यदि धाराप्रवाहेण संस्कृतं वक्तव्यं तर्हि संस्कृतस्य तपं - तपश्चर्या आवश्यकी ! सा तपश्चर्या संवादशालायां एव भवति इति मम अनुभवः |

मित्राणि - देहल्यां सति अपि संवादशालायं संपूर्ण-भारतात् छात्राः आगच्छन्ति | मया सह एकः जयेन्द्रनाम्नः सिन्गापूरवासी मित्रं अपि आसीत् | सः तु नवमकक्षायाः छात्रः ! चिन्मय-मिशन इत्यत्र कार्यं कुर्वन् एकः स्वामीमहोदयः अपि सहपाठी रुपेण लब्धः मया - संवित्-चैतन्यः इति महोदयस्य नामधेयं | कनिष्ठतमः छात्रः अष्टमकक्षातः - ज्येष्ठतमः च सप्ततिवर्ष -वयस्कः -- अतः छात्रेषु अपि वैविध्यं आसीत् | पुनः मातृभाषाभिन्नत्वात् संस्कृतेन संभाषणं अनिवार्यमेव अभवत् |
केचन गायकाः, केचन वादकाः, केचन अभिनेतारः, केचन मितभाषिणः, केचन वाचालाः -- एवं नैके मित्राणि लब्धानि तत्र -- सूर्यनारायणः, पङ्कजः, भावेशः, विनेशः, अमित-शर्मा, चन्द्रहास महोदयः, पवनः , अवध बिहारी, सूर्यदेवः, इत्यादयः नैके ... सर्वेषां नामानि स्मर्तुं अहं असमर्थः धिक् मे स्मरणशक्तिः !
उपहारक्षणाः  - 
श्री चमूकृष्णशास्त्री महोदयेन सह मेलनं संवादशालायं महान् उपहारः | तेन मेलनेन अहं संस्कृत-कार्यार्थं बहु बलं प्राप्नवम् |  संघटन-मन्त्री श्री कामत महोदयं अपि मिलितवान् अहं , संवादशालायाः कार्यप्रमुखः श्री श्रीशदेवपुजारी तथा च संस्कृतभारत्याः पूर्णकालिक कार्यकर्ता श्री सुधीष्टकुमार मिश्रः  इत्येतेषां अपि साम्मुख्यं अभवत् |  एवं संस्कृत क्षेत्रस्य द्रोण-भीष्मादिभिः सह एकस्य सैनिकस्य मेलनं इति महान् आनन्दस्य विषयः खलु ?
तात्पर्यं : - 
आहत्य मया यः अनुभवः तत्र प्राप्तः सः अभूतपूर्वः अस्ति | M Tech शिक्षणं समाप्य वृत्तिक्षेत्रे गमनात प्राक् एतस्य अनुभवस्य विशेष महत्त्वं अस्ति |

यदि संस्कृतं रोचते भवते / भवत्यै तर्हि संवादशालं अवश्यं गन्तव्यं |