Wednesday, February 2, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (२)






द्वितीयदिने रात्रौ मुम्बयां प्रति आगमनाय रेल-आरक्षणं कृतमासीत | अत: मेलायां शीघ्रं प्राप्तव्यं इति चिन्तयित्वा अहं शन्तनुना सह IIScतः नववादने एव निर्गतवान् |
द्वितीयदिने सम्यक समयं दत्वा शनै: शनै: समग्रां ग्रन्थप्रदर्षिनीं अटितवन्तौ आवाम् | ज्ञानगङ्गा प्रदर्शिनीं अपि सविस्तरां अवालोकयाव | संस्कृतभाषायां अमितं ज्ञानं अस्ति इति सर्वे जानीम | एतादृश संस्कृतभाषाबद्धस्य ज्ञानस्य विषये याः संस्था: संशोधनं कुर्वन्ति तेषां कृते अवकाशः आसीत् एषा प्रदशिनी | IITB, IIMB, ISRO संस्कृत-भारती तथा च अन्ये नैकाः संस्थाः तत्र भागं गृहीतवन्तः | प्रमुखतया भित्तीपत्रक-प्रदर्शिनी एषा | काचित् संस्थाः ग्रन्थोल्लिखितयन्त्रान् पुनर्निर्माय सप्रयोगं अपि पुरातनज्ञानस्य अन्वेक्षणं शक्यं इति प्रदर्शितवतयः | महाभारतप्रसिद्धाः चक्रव्यूहः, मकरव्यूहः इत्यादीनां प्रतिकृतयः अपि आसन् ज्ञानगङ्गायाम् |



महत्त्व पूर्णं आकर्षणं तु संस्कृतग्रामम् | सम्मेलनस्थले एके विभागे लघु-ग्रामं एव निर्मितवन्तः आयोजकाः | अद्यतन काले अपि सर्वे व्यवहाराः संस्कृतेन कर्तुं शक्यते इत्येतस्य प्रात्यक्षिकं एव तत् ग्रामम् | तत्र विद्यालयः, समीकरणागारः (garage), नैके आपणाः, तथा च ग्रामन्यायालयं आसीत् | विद्यालये "मम नाम महेशः | भवतः नाम किं ? ... भवत्याः नाम किं ?" इति संवादः अनितरं प्रचलति स्म -- यतः तत्र आप्रातः रात्रिपर्यन्तं पञ्चनिमिषात्मकाः संभाषणवर्गाः प्रचलिताः आसन् | विशेषतया उल्लेखनीयं तु ग्रामन्यायालयम् | तत्र च एकः स्वयंसेवकः सदैव सरपञ्च/न्यायाधीश रूपेण विराजमानः आसीत् | ये जनाः द्रष्टुं गच्छन्ति तेषां एव मिथ्याकलहानां (pseudo-quarrels) निवारणं करोति, न्यायं च ददाति स्म सः |


आवामपि तत्र न्यायार्थं गतवतौ ! मेरठस्थसंस्कृतभारत्याः गजक-पट्टिका-आपणः , हिमाचलप्रदेशस्य टोपिकाSपणः, अन्यानां केषाञ्चित् युतकापणः इत्यादि आपणाः अपि ग्रामं भूषयन्ति स्म |

एका पारंपारिक परीक्षा अपि अष्टम दिनाङ्के आसीत् - शलाका परीक्षा | पुरा गुरुकुले एतावती परीक्षा पद्धतिः आसीत् | तत्र छात्र: विदित ग्रन्थस्य समग्रं अध्ययनं करोति, परीक्षासमये परीक्षकः तत् ग्रन्थस्य कस्मिन्नपि पृष्ठे शलाकां स्थापयति | तदा छात्रेण तत् पृष्ठं मुखोद्गतं अस्ति इति प्रदर्शनीयं; अनन्तरं च तद्विषयस्य सविस्तरा मौखिकी परीक्षा भविष्यति | एषा परीक्षा तु मया न् दृष्टा | अहो मम दुर्भाग्यं |

कविसंमेलनम्, युवासंमेलनम्, महिलासंमेलनम्, परिचर्चाः इत्यादयः उपकार्यक्रमाः अपि संपन्नाः| मेलायां त्रिशताधिक नूतन संस्कृतपुस्तकानां प्रकाशनमपि अवर्तत | चतुष्कोटिरुप्यकाणां पुस्तकविक्रयः अपि अभवत् मेलायाम् | उत्तराञ्चलराज्यस्य द्वितीया राज्यभाषा तु संस्कृतमस्ति एव , किन्तु संस्कृतभाषा व्यवहारभाषा भवितुमर्हति, भवेच्च इति विश्वासः अददात् एषा मेला | तत्र सततं घोषायमानया वाग्गर्जनया अहं लेखनं समापयामि --
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !

वदतु संस्कृतम्, जयतु भारतम् !

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)