Saturday, November 26, 2011

mak says it मधूक्ती

  • रागदारी / शास्त्रीय संगीत आणि उमेश व गिरीश कुलकर्णी चे चित्रपट (आणि fab -इंडिया / खादी चे कपडे) यात काय साम्य ....
  1. या गोष्टींची किंमत फार थोड्या लोकाना कळते
  2. यात प्रत्यक्ष कलाकार ( उपभोक्ते ) याना श्रोते (पाहणारे) यांच्यापेक्षा दसपट आनंद मिळतो :प
  • एखादी कलाकृती "उच्च" पातळीवरचा आनंद देते म्हणजे काय ... 
  1. ती गोष्ट आपल्या डोक्यातून काही केल्या जात नाही.
  2. आपण त्यावरच विचार करत बसतो ... आणि मग एखाद्या गणिती कोड्याचं उत्तर एकदम सापडावं तद्वतच आपल्याला त्या कलाकृतीतली गोम समजावी " अरेच्चा हे असं आहे होय" असं वाटावं ... त्यावेळी मिळतो तो आनंद समाधान ... केवळ अवर्णनीय  
  • रेल्वेचा प्रवास आरामदायी की बसचा ... रेल्वेचाच ; अर्थात! ... पण रेल्वे गाठेपर्यंतच्या प्रवासाचं काय ... मुळात गाडी लवकर मिळावी म्हणून जीवाचा आटापिटा, मग आपली गाडी नेमकी कुठल्या फलाटावर येणार ? ... ती गाठेपर्यंत आपण हमखास २ -३ जिने उतरतो / चढतो... म्हणून रेल्वेचा प्रवास आरामदायी .. पण बस गाठणं सोपं रेल्वे गाठणं नव्हे 
  • आपल्याला खरच कुठल्या गोष्टीची गरज असते ... कितीही मिळाली तरी पुरी पडत नाही अशी कुठली गोष्ट ? एकच  आणि ती म्हणजे वेळ 
  • सुंदर मुलीकडे पाहिल्यावर आपल्याला आनंद होतो हे खरय; पण त्याहून अधिक आनंद कधी मिळतो ?? आपण चुकून नजर फिरवावी आणि सुंदर मुलगी आपल्याकडे पाहत आहे याची जाणीव व्हावी!!!
  •  चालवणे  हा शब्द  इथे हत्यार चालवणे किंवा सुरा चालवणे असा वापरायचा आहे .... पुलंचं हे वाक्य तर आपल्याला अगदी पाठ आहे . पण हे  चालवणं फार महत्वाचं आहे . मी एखादी गाडी चालवतो तसं  मी माझ्या दिवस चालवू शकतो का  म्हणजे मला हवं  तसं  मी त्या दिवसात वागू शकतो का ? इंग्लिश मध्ये या अर्थी to drive असं क्रियापद आहे . तेव्हा तुम्हाला तुमच्या सवयी , दिवस, वेळ आणि नशीब चालवता येतं का ? असेल तर तुम्ही आयुष्याचे तरबेज चालक झालात ! 
  • ओदनं नास्ति तर्हि भोजनं नास्ति !
 (...वपुर्झा वरून सुचलेली शैली आणि सैरावैरा धावणार्या मनात येणारे काही विचार ..)


  


Friday, September 23, 2011

चलन्तु सर्वे संवादशालां

पूर्वपीठिका :
कला क्षेत्रे बिन्दवः न सन्ति; तत्र केवलं सहजरीत्या यत् प्रभवति तदेव प्रतिपाद्यं इति सामान्यअभ्यासः | किन्तु अहं अत्र तान्त्रिकरीत्या संवादशालायाः वर्णनं करोमि | तत्र कारणद्वयं अस्ति - एकमस्ति यत् संवादशालायाः अनन्तरं बहु कालः अभवत् अतः यदि एवमेव लिखामि तर्हि तत्र तर्क-प्रवाहः न आयाति; अन्यत् च यदि प्रवाहरुपेण लिखामि तर्हि तत्र प्रायः अभिव्यक्त्यां, पठने, लेखने च खण्डितता आगच्च्हेत! अतः एषः प्रयासः --  
दिनानि - संवादशाला पञ्चदशदिनात्मका वर्तते | निवासी शिबिरमियं देहल्यां मण्डोलीग्रामे बद्री भगत वेदविद्यालये भवति | तत्र एकं  श्री दुर्गादेवीमन्दिरं अपि  अस्ति  परिसरे दैनन्दिन जीवनात् १५ दिनानि निष्कास्य तत्र गमनाय एव एका मनीषा आवश्यकी |  यथा जले कूर्दनात पूर्वमेव तरण विषये किञ्चित् भयं भवति; यदा तरणं आरम्भते तदा तु बहु आनन्दः, विशेष लाभः च; सा एव स्थितिः अत्र | तत्र गमनात् पूर्वं किञ्चित् भयं, शङ्का च वर्तते, किन्तु गमनानन्तरं अद्वितीयः अनुभवः    |
अनुशासनम् -  संवादशाला मम कृते अनुशासनस्य एकः महत्त्वपूर्ण पाठः | तत्र प्रातःकाले पञ्चवादनात आरभ्य रात्रौ दशवादनपर्यन्तं नैरन्तर्येण सत्राणि आयोजितानि सन्ति | अनुशासनस्य बिन्दू स्तः :
संस्कृतेन संभाषणं 
समयपालनं   
 यदि आज्ञापालनं क्रियते तर्हि अन्यत् सर्वं विनासायासं भवति ! अन्यया भाषया संभाषणं सर्वथा निषिद्धं तत्र, केवलं संस्कृतेन संभाषणं ! यदि संस्कृतं न जानाति तर्हि दिनद्वयं तूष्णीं स्थातव्यं ! समयपालनविषये तु सैन्यसमाना जागरुकता - तत्र शिक्षकाः  अस्मान् लज्जीकृत्वा अस्मद्पूर्वमेव कक्षायां आगच्छन्ति स्म | 
शिबिरस्थलस्य स्वच्छता, आवासीय प्रकोष्ठस्य स्वच्छता इत्यपि अस्माकमेव दायित्वमासीत् | प्रातःकाले ५.४५ तः ६.१५ पर्यन्तं व्यायामं समाप्य स्वच्छता करणीया | सहभागीजनानां गणद्वयेषु एतत् दायित्वं विभक्तं आसीत | गणे केषाञ्चन दायित्वं भोजनपरिवेषणं | किन्तु प्रत्येकेन  एकं दिनं विहाय एकस्मिन् दिने शिबिरस्य व्यवस्थापने किमपि कार्यं करणीयं | 
संपूर्णं संस्कृतं -  शिबिरस्थलात् बहिर्गमनाय अनुज्ञा न आसीत् | पुनः जङ्गमवाणी तैः स्वीकृता | बहिस्थ विश्वेन सह कोपि संपर्कः एव नास्ति | संपूर्णः अज्ञातवासः ! एवं सर्वं संस्कृतं विहाय तत्र अन्यत् किमपि चिन्तने अपि न भवेत् इति निश्चितं आसीत् |
सत्राणि - प्रातः ८.३० तः आरभ्य  रात्रिकाले ९.४५ पर्यन्तं शत सत्राणि आसन् | प्रातः ७.३० तः ८.०० वादनपर्यन्तं प्रार्थना, प्रातःस्मरणं च विद्यते स्म | द्वितीय-तृतीये सत्रे मिलित्वा एकमेव सत्रं  - १०.३० तः १२.३० पर्यन्तं - तदासीत् संभाषण-शिबिर-सत्रं | आदर्श संभाशणशिबिरं तदा भवति स्म | माध्यान्ह सत्रे अध्यापनस्य अभ्यासः तथा च केचन व्याकरण पाठाः आसन् |
"भाषा-क्रीडा" इति ५.४५ तः ६.१५ पर्यन्तं विशेष कार्यक्रमः -- चोरान्वेषणं, संख्याक्रीडा, कथापूर्ती-क्रीडा एवं क्रीडया अपि भाषाभ्यासः एव कारयन्ति स्म तत्रस्थाः शिक्षकाः |  ७.३० वादने यदा सर्वाणि सत्राणि समाप्यन्ते तदा महान् सन्तोषः सर्व छात्राणाम् ! किन्तु न विश्रान्तव्यं -- भोजनात् परम् आसीत् प्रतिभाप्रदर्शनं | तत्र अनेकानि संस्कृत नाटकानि तथा च गीतानि पठितवन्तः वयं | मूकाभिनयं कृत्वा क्रियातर्कः, संस्कृत-गीत-प्रतियोगिता, हास्यकनिका-प्रतियोगित इति अपि तत्र आसन् कार्यक्रमाः |     

एवं आदिनं सर्वे व्यस्ताः, श्रान्ताः च अभवन् | किन्तु सा श्रान्तिः अस्माकं हिताय एव आसीत् इतीदानीं ज्ञायते ! यदि धाराप्रवाहेण संस्कृतं वक्तव्यं तर्हि संस्कृतस्य तपं - तपश्चर्या आवश्यकी ! सा तपश्चर्या संवादशालायां एव भवति इति मम अनुभवः |

मित्राणि - देहल्यां सति अपि संवादशालायं संपूर्ण-भारतात् छात्राः आगच्छन्ति | मया सह एकः जयेन्द्रनाम्नः सिन्गापूरवासी मित्रं अपि आसीत् | सः तु नवमकक्षायाः छात्रः ! चिन्मय-मिशन इत्यत्र कार्यं कुर्वन् एकः स्वामीमहोदयः अपि सहपाठी रुपेण लब्धः मया - संवित्-चैतन्यः इति महोदयस्य नामधेयं | कनिष्ठतमः छात्रः अष्टमकक्षातः - ज्येष्ठतमः च सप्ततिवर्ष -वयस्कः -- अतः छात्रेषु अपि वैविध्यं आसीत् | पुनः मातृभाषाभिन्नत्वात् संस्कृतेन संभाषणं अनिवार्यमेव अभवत् |
केचन गायकाः, केचन वादकाः, केचन अभिनेतारः, केचन मितभाषिणः, केचन वाचालाः -- एवं नैके मित्राणि लब्धानि तत्र -- सूर्यनारायणः, पङ्कजः, भावेशः, विनेशः, अमित-शर्मा, चन्द्रहास महोदयः, पवनः , अवध बिहारी, सूर्यदेवः, इत्यादयः नैके ... सर्वेषां नामानि स्मर्तुं अहं असमर्थः धिक् मे स्मरणशक्तिः !
उपहारक्षणाः  - 
श्री चमूकृष्णशास्त्री महोदयेन सह मेलनं संवादशालायं महान् उपहारः | तेन मेलनेन अहं संस्कृत-कार्यार्थं बहु बलं प्राप्नवम् |  संघटन-मन्त्री श्री कामत महोदयं अपि मिलितवान् अहं , संवादशालायाः कार्यप्रमुखः श्री श्रीशदेवपुजारी तथा च संस्कृतभारत्याः पूर्णकालिक कार्यकर्ता श्री सुधीष्टकुमार मिश्रः  इत्येतेषां अपि साम्मुख्यं अभवत् |  एवं संस्कृत क्षेत्रस्य द्रोण-भीष्मादिभिः सह एकस्य सैनिकस्य मेलनं इति महान् आनन्दस्य विषयः खलु ?
तात्पर्यं : - 
आहत्य मया यः अनुभवः तत्र प्राप्तः सः अभूतपूर्वः अस्ति | M Tech शिक्षणं समाप्य वृत्तिक्षेत्रे गमनात प्राक् एतस्य अनुभवस्य विशेष महत्त्वं अस्ति |

यदि संस्कृतं रोचते भवते / भवत्यै तर्हि संवादशालं अवश्यं गन्तव्यं |





Sunday, April 3, 2011

The Greater Loss

Once the ocean asked the river water as it came to meet him-“Why do you seem so nervous and moving slowly? You jumped off the mountains and travelled through tough terrains just to meet me! Then what is the matter now?”

“Yeah! I agree that I was very much eager to meet you and ran furiously towards the goal, but as I traveled I now realize that I am going to miss the felicity and excitement of the journey which I had. And now as I reached nearer, I know that I am going to become greater, but the nervousness is due to the loss of tiny things which I shall never experience again” the water said.

Wednesday, February 2, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (२)






द्वितीयदिने रात्रौ मुम्बयां प्रति आगमनाय रेल-आरक्षणं कृतमासीत | अत: मेलायां शीघ्रं प्राप्तव्यं इति चिन्तयित्वा अहं शन्तनुना सह IIScतः नववादने एव निर्गतवान् |
द्वितीयदिने सम्यक समयं दत्वा शनै: शनै: समग्रां ग्रन्थप्रदर्षिनीं अटितवन्तौ आवाम् | ज्ञानगङ्गा प्रदर्शिनीं अपि सविस्तरां अवालोकयाव | संस्कृतभाषायां अमितं ज्ञानं अस्ति इति सर्वे जानीम | एतादृश संस्कृतभाषाबद्धस्य ज्ञानस्य विषये याः संस्था: संशोधनं कुर्वन्ति तेषां कृते अवकाशः आसीत् एषा प्रदशिनी | IITB, IIMB, ISRO संस्कृत-भारती तथा च अन्ये नैकाः संस्थाः तत्र भागं गृहीतवन्तः | प्रमुखतया भित्तीपत्रक-प्रदर्शिनी एषा | काचित् संस्थाः ग्रन्थोल्लिखितयन्त्रान् पुनर्निर्माय सप्रयोगं अपि पुरातनज्ञानस्य अन्वेक्षणं शक्यं इति प्रदर्शितवतयः | महाभारतप्रसिद्धाः चक्रव्यूहः, मकरव्यूहः इत्यादीनां प्रतिकृतयः अपि आसन् ज्ञानगङ्गायाम् |



महत्त्व पूर्णं आकर्षणं तु संस्कृतग्रामम् | सम्मेलनस्थले एके विभागे लघु-ग्रामं एव निर्मितवन्तः आयोजकाः | अद्यतन काले अपि सर्वे व्यवहाराः संस्कृतेन कर्तुं शक्यते इत्येतस्य प्रात्यक्षिकं एव तत् ग्रामम् | तत्र विद्यालयः, समीकरणागारः (garage), नैके आपणाः, तथा च ग्रामन्यायालयं आसीत् | विद्यालये "मम नाम महेशः | भवतः नाम किं ? ... भवत्याः नाम किं ?" इति संवादः अनितरं प्रचलति स्म -- यतः तत्र आप्रातः रात्रिपर्यन्तं पञ्चनिमिषात्मकाः संभाषणवर्गाः प्रचलिताः आसन् | विशेषतया उल्लेखनीयं तु ग्रामन्यायालयम् | तत्र च एकः स्वयंसेवकः सदैव सरपञ्च/न्यायाधीश रूपेण विराजमानः आसीत् | ये जनाः द्रष्टुं गच्छन्ति तेषां एव मिथ्याकलहानां (pseudo-quarrels) निवारणं करोति, न्यायं च ददाति स्म सः |


आवामपि तत्र न्यायार्थं गतवतौ ! मेरठस्थसंस्कृतभारत्याः गजक-पट्टिका-आपणः , हिमाचलप्रदेशस्य टोपिकाSपणः, अन्यानां केषाञ्चित् युतकापणः इत्यादि आपणाः अपि ग्रामं भूषयन्ति स्म |

एका पारंपारिक परीक्षा अपि अष्टम दिनाङ्के आसीत् - शलाका परीक्षा | पुरा गुरुकुले एतावती परीक्षा पद्धतिः आसीत् | तत्र छात्र: विदित ग्रन्थस्य समग्रं अध्ययनं करोति, परीक्षासमये परीक्षकः तत् ग्रन्थस्य कस्मिन्नपि पृष्ठे शलाकां स्थापयति | तदा छात्रेण तत् पृष्ठं मुखोद्गतं अस्ति इति प्रदर्शनीयं; अनन्तरं च तद्विषयस्य सविस्तरा मौखिकी परीक्षा भविष्यति | एषा परीक्षा तु मया न् दृष्टा | अहो मम दुर्भाग्यं |

कविसंमेलनम्, युवासंमेलनम्, महिलासंमेलनम्, परिचर्चाः इत्यादयः उपकार्यक्रमाः अपि संपन्नाः| मेलायां त्रिशताधिक नूतन संस्कृतपुस्तकानां प्रकाशनमपि अवर्तत | चतुष्कोटिरुप्यकाणां पुस्तकविक्रयः अपि अभवत् मेलायाम् | उत्तराञ्चलराज्यस्य द्वितीया राज्यभाषा तु संस्कृतमस्ति एव , किन्तु संस्कृतभाषा व्यवहारभाषा भवितुमर्हति, भवेच्च इति विश्वासः अददात् एषा मेला | तत्र सततं घोषायमानया वाग्गर्जनया अहं लेखनं समापयामि --
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !

वदतु संस्कृतम्, जयतु भारतम् !

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)

Monday, January 31, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (१)



"आगच्छन्तु! आगच्छन्तु! टोपिका अत्र अस्ति ध्यानं कुत्र अस्ति?!" "टोपिकां स्वीकुर्वन्तु भोः| केवलं द्विशतरुप्यकाणि " इति आवाहयन्तः सन्ति संस्कृतविक्रेतारः ... अन्यत् च भोजनमण्डपस्थानं -- "मार्गे न तिष्ठन्तु!" इति वदन्तः सन्ति द्विवर्षीयाः वा त्रिवर्षीयाः बालका: ... "विक्रमोर्वशीयं लभ्यते वा ?"; "क्ष्यम्यतां! इदानीमेव समाप्तम्!" किन्तु भवतः नाम तथा च संकेतं ददातु; वयं प्रेषयामः" इति च संवादः प्रचलति ग्रन्थप्रदर्शने | एकस्मिन्नेव प्राङ्गणे लक्षावधयः संस्कृतप्रेमीजनाः संस्कृतभाषकाः समायाताः | एवं संपूर्णं संस्कृतवातावरणं इदानीमेव जीवनकाले दृष्टीगोचरं भवेत् इति स्वप्नेSपि नासीत् आगतानां बहुतानाम् | परन्तु एषः उत्सवः प्रत्यक्ष: अभवत् बङ्गळुरुनगरे जानेवारीमासस्य षड्(६)दिनाङ्कतः दश(१०)दिनाङ्कपर्यन्तं | विश्वसंस्कृतपुस्तकमेला (www.samskritbookfair.org) इति एतस्याः पर्वण्याः नाम | अहमपि अष्टमनवमदिनाङ्कयोः तत्र गत्वा धन्यः अभूत्|

संस्कृतभारत्या आयोजितस्याः एतस्याः मेलायाः कर्नाटकसर्वकारः प्रायोजकः आसीत् | गत - द्वित्रदशकेषु "संस्कृतं लोकभाषा भवेत्" इति ध्येयं अनुसृत्य संस्कृतभारत्या तथा च अन्यसंस्थाभिः विपुलं कार्यं कृतम् | संस्कृतभाषायाः जनमान्यता, ख्यातिः, अभ्यासः च वर्धमानाः सन्ति | तर्हि एतस्य मेलानिमित्तं संस्कृतानुरागिणाः अभ्यासकाः च सर्वे एकत्र आगच्छेयुः, संभूय कार्यं कुर्युः च | एतत् तु प्रथम हेतुः | अन्यत् च संस्कृत साहित्यस्य संस्कृतसंबन्धी पुस्तकानां च विक्रयः | संस्कृतभाषा मृतभाषा नास्ति एव किन्तु भारतीय संस्कृतेः मूलाधारः एषा भाषा सर्वजनानां मनसि स्थापनीया इति तृतीयं ध्येयम् |

यदा अहं मेलाविषये अजानम् तदा एव तत्र गन्तव्यं इति निश्चितं कृतं मया | अष्टम-नवम दिनाङ्कौ विरामदिनौ, अतः अहं तावेव दिनौ चयित्वा षड्दिनाङ्के रात्रौ मुम्बईतः प्रस्थितवान् | 'चालुक्य' एक्सप्रेसयानेन गच्छन् पश्चिमकर्नाटकस्य विलोभनीयं निसर्गसौन्दर्यं अवालोकयं | बङ्गळुरुनगरे अहं सप्तम दिनाङ्के रात्रौ दशवादने प्राप्तवान् | तत्र अहं IISc मध्ये मम मित्रेण शन्तनुना सह न्यवसम् | तत्र प्राप्त्वा मम औत्सुक्यं द्विगुणितं जातम् | अहं, शन्तनु: तथा च सिद्धार्थः अष्टम दिनाङ्के एकादशवादने नेशनल-हायस्कूल-प्राङ्गणं आप्तवन्ताः | .... अहो भव्यं मेलास्थानम्, यथा चिन्तितं तथा एव प्रथमदर्शनं जातम् | दक्षिणहस्ते द्वौ प्रदर्शिनी आस्ताम्, वामहस्ते तु विस्तीर्णः सभामण्डपः | पञ्जीकरणार्थं अहं अपृच्छम्, तर्हि अहो आश्चर्यं ! चत्वारि दिनानां आहार-निवासव्यवस्थां मिलित्वा पञ्जीकरणशुल्कं केवलं शत रुप्यकाणि मात्रं (विद्यार्थीनां कृते) | अन्येषां कृते अपि नाममात्रं द्विशत रुप्यकाणिमात्रं एव शुल्कं | धन्याः ते आयोजकाः प्रायोजकाः च |

तद्दिने विज्ञानपरिचर्चा आसीत्| श्री रोद्दम नरसिंहः, श्रीगुरुमूर्तिः, IIMB निदर्शकः इत्यादयः मान्यवराः तत्र भागं गृहीतवन्तः |

पुराणमित्येव न साधु सर्वं न चापि नवमित्यवद्यम् |
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ||

इति विचारः संस्कृतस्थविज्ञानसंशोधने मनसि धारणीयः इति श्रीनरसिंहः प्रावदत् | वित्तशास्त्रतज्ज्ञ: श्रीगुरुमूर्तिः अगदत् : "भारतीय अर्थव्यवस्था भारतीयसंस्कृतेः कारणात् एव वैश्विक अर्थसंकटे अपि वृद्धिमती अस्ति, तथा च संस्कृतिः संस्कृताश्रिता खलु, अतः संस्कृतभाषा वर्धनीया "|

प्रथमदिने ग्रन्थप्रदर्शनं त्रिवारं दृष्टवान्, यतः बहु संमर्दः आसीत् तत्र | शताधिक आपणेषु संस्कृत-पुस्तक-विक्रयं दृष्ट्वा एव संतोषं आप्नवम् | एकवारमेव गत्वा समाधानप्राप्तिः अशक्या एव | सहस्रशः जनाः तत्र गन्तुमुत्सुकाः तथा च नैकाः शत-द्विशतगणात्मकाः पाठशाला-विद्यार्थिनः तदा तदा तत्र आगच्छन्ति स्म |

मध्याह्ने एकं विशेषमेलनं निश्चितं आसीत् | यथा IITB मध्ये संस्कृतप्रेमी-छात्राणां गणः वर्तते तथा IITM, IISc मध्ये अपि अस्ति | प्रत्येक संस्थानतः आगत: एकैक: तत्र | अरुणः इति IITM छात्रः मेलनं अकारयत् | सर्वै: मिलित्वा उत्तमकार्यं करणीयं इति चिन्तयित्वा एतत् मेलनं अभवत् | मेलनकारणात् संस्कृतविषये कार्यं कर्तुं उत्साहः द्विगुणितः जातः | सायङ्काले ज्ञानगङ्गा इति "भारतीय-ज्ञान-प्रदर्शिनीं" अपि अपश्यम् | रात्रौ एस पी बाल सुब्रह्मण्यं महोदयस्य सुश्राव्यं गायनं आसीत्, स: सर्वाणि संस्कृत-गीतानि एव गीतवान् | गानकार्यक्रमे तु तावत् संमर्दः आसीत् यत् जनाः मण्डपात् बहिः स्थित्वा अपि गानं श्रुतवन्तः|

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)